वांछित मन्त्र चुनें

यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥

अंग्रेज़ी लिप्यंतरण

yad agne adya mithunā śapāto yad vācas tṛṣṭaṁ janayanta rebhāḥ | manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ||

पद पाठ

यत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑तः । यत् । वा॒चः । तृ॒ष्टम् । ज॒नय॑न्त । रे॒भाः । म॒न्योः । मन॑सः । श॒र॒व्या॑ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥ १०.८७.१३

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:13 | अष्टक:8» अध्याय:4» वर्ग:7» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्वी नायक ! (यत्-अद्य) जब आज-इस समय (मिथुना शपातः) दो परस्पर शब्द करते हैं (यत्) या जब (रेभाः) बहुत शब्दायमान (वाचः तृष्टं जनयन्त) वाणी के तृष्णाजनक वचन कटु वचन को उत्पन्न करते हैं, उस अवसर पर जो मन्यु उत्पन्न होता है (मन्योः-मनसः) मन्युरूप मन से (शरव्या या जायते) जो इषु-बाण तैयार होता है, (तया यातुधानान् हृदये विध्य) उससे पीड़ा देनेवालों को हृदय में ताड़ित कर ॥१३॥
भावार्थभाषाः - कटु वचन बोलनेवालों के हृदय में शस्त्र के द्वारा बींध देना चाहिये ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्विन् नायक ! (यत्-अद्य) यदास्मिन् समये (मिथुना शपातः) द्वौ परस्परमपशब्दं ब्रूतः (यत्) यदा वा (रेभाः) बहुशब्दायमानाः “रेभृ शब्दे” [भ्वादि०] (वाचः तृष्टं जनयन्त) वाण्या तृष्णाजनकं वचनं कटुवचनं जनयन्ति तदवसरे यो मन्युर्जायते (मन्योः-मनसः) मन्युभूतस्य मनसः (शरव्या या जायते) या शरव्येषुर्जायते (तया यातुधानान् हृदये विध्य) तया यातनाधारकान् हृदये ताडय ॥१३॥